|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.67. अध्यायः 067
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मेण विश्वोपाख्यानकथने वासुदेवमाहात्म्यकथनम् ॥ 1 ॥ युधिष्ठिरस्य कृष्मसमाश्रयणेन विजय इति कथनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
दुर्योधन उवाच। 6-67-0x(4140)(41695)
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ 6-67-1(41696)
भीष्म उवाच। 6-67-2x(4141)
वासुदेवो महद्भूतं सर्वदैवतदैवतम् ।
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥ 6-67-2(41697)
श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च।
असितो देवलश्चापि वालखिल्यास्तपोधनाः ॥ 6-67-3(41698)
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्।
सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः ॥ 6-67-4(41699)
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्।
स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥ 6-67-5(41700)
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।
सर्वदेवमयो देवः शयानः शयने सुखम् ॥ 6-67-6(41701)
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत ॥ 6-67-7(41702)
एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह।
अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥ 6-67-8(41703)
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।
एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः ॥ 6-67-9(41704)
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।
उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः ॥ 6-67-10(41705)
ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ 6-67-11(41706)
अग्रजं सर्वभूतानां संकर्षणमकल्पयत्।
शेषं चाकल्पयद्देवमनन्तमिति तं विदुः ॥ 6-67-12(41707)
यो धारयति भूतानि धरां चेमां सपर्वताम्।
ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्।
कर्णस्रोतोभवं चापि मधुं नाम महासुरम् ॥ 6-67-13(41708)
तमुग्रमुग्रकर्माणमुग्रां बुद्धइं समास्थितम् ।
हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता।
ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः ॥ 6-67-14(41709)
तस्य तात वधादेव देवदानवमानवाः ।
मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ॥ 6-67-15(41710)
वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् ।
एष धाता विधाता च सर्वेषां प्रामिनां हरिः ॥ 6-67-16(41711)
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति।
मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा ॥ 6-67-17(41712)
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच।
तपसा नियतं देवं निधानं सर्वदेहिनाम् ॥ 6-67-18(41713)
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च।
योगभूतं परिचरन्केशवं महदाप्नुयात्॥ 6-67-19(41714)
केशवः परमं तेजः सर्वलोकपितामहः ।
एवमार्हुर्हृषीकेशं मुनयो वै नराधिप ॥ 6-67-20(41715)
एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ 6-67-21(41716)
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥ 6-67-22(41717)
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः ।
भये महति मग्नांश्च पाति नित्यं जनार्दनःक ॥ 6-67-23(41718)
स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत।
सर्वात्मना महात्मानं केशवं जगदीश्वरम्।
प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम् ॥ ॥ 6-67-24(41719)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तषष्टितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-67-8 प्रभव उत्पत्तिहेतुः। अप्ययः प्रलयहेतुः ॥ 6-67-13 कर्णात्स्रवतीति कर्णस्रोतः कर्णमलम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|